|
|
 |
 |
|
|
२ सभापर्व.jpg)
॥ श्रीः ॥
2.51. अध्यायः 051
Mahabharata - Sabha Parva - Chapter Topics
युधिष्ठिरेण भीष्मम्प्रति विस्तरेण कृष्णकथाकथनप्रार्थना॥ 1॥ देवासुरयुद्धे पराजितानां देवानां स्मरणमात्रसंनिहितेन हरिणा दैत्यानां परा जयः॥ 2॥ भूम्या स्वभारावतरणं प्रार्थितेऽस्य विष्णोः भूमाववतारनिर्धारणम्॥ 3॥
Mahabharata - Sabha Parva - Chapter Text
वैशम्पायन उवाच॥
एवमुक्ते तु कौन्तेयस्ततः कौरवनन्दनः।
आबभाषे पुनर्भीष्णे धर्मराजो युधिष्ठिरः॥ 2-51-1(13347)
भूय एव मनुष्येन्द्र उपेन्द्रस्य यशस्विनः।
जन्म वृष्णिषु विज्ञातुमिच्छामि वदतां वर॥ 2-51-2(13348)
यथैव भगवाञ्जातः क्षिताविह जनार्दनः।
माधवेषु महाबुद्धिस्तन्मे ब्रूहि पितामह॥ 2-51-3(13349)
वैशम्पायन उवाच। 2-51-4x(1477)
एवमुक्तस्ततो भीष्मः केशवस्य महात्मनः।
माधवेषु तथा जन्म कथयामास वीर्यवान्॥ 2-51-4(13350)
हन्त ते कथयिष्यामि युधिष्ठिर यथातथम्।
यतो नारायणस्येह जन्म वृष्णिषु कौरव॥ 2-51-5(13351)
पुरा लोके महाराज वर्तमाने कृते युगे।
आसीत्रैलोक्यविख्यातः सङ्ग्रामस्तारकामयः॥ 2-51-6(13352)
विरोचनो मयस्तारो वराहः श्वेत एव च।
विप्रचित्तिः प्रलम्बश्च वृत्रजम्भबलादयः॥ 2-51-7(13353)
नमुचिः कालनेमिश्च प्रह्लाद इति विश्रुतः।
लम्बः किशोरः स्वर्भानुररिष्टो राक्षसेश्वरः॥ 2-51-8(13354)
एते चान्ये च बहवो दैत्यसङ्घाः सहस्रशः।
नानाशस्त्रधरा राजन्नानाभूषणवाहनाः॥ 2-51-9(13355)
देवतानामभिमुखास्तस्थुर्दैतेयदानवाः।
देवास्तु युध्यमानास्ते दानवानभ्ययू रणे॥ 2-51-10(13356)
आदित्या वसवो रुद्राः साध्या विश्वे मरुद्गणाः।
इन्द्रो यमश्च वरुणश्चन्द्रश्चैव धनेश्वरः॥ 2-51-11(13357)
अश्विनौ च महावीर्यौ ये चान्ये देवतागणाः।
चक्रुर्युद्धं महाघोरं दानवैश्च यथाक्रमम्॥ 2-51-12(13358)
युध्यमानाः समेयुश्च देवा दैतेयदानवैः।
तद्युद्धमभवद्घोरं देवदानवसङ्कुलम्॥ 2-51-13(13359)
ताभ्यां बलाभ्यां सञ्जज्ञे तुमुलो विग्रहस्तदा।
तीक्ष्णशस्त्रैः किरन्तोऽथ अभ्ययुर्देवदानवाः॥ 2-51-14(13360)
घ्रन्ति देवान्सगन्धर्वान्सयक्षोरगचारणान्।
ते वध्यमाना दैतेयैर्देवसङ्घास्तदा रणे॥ 2-51-15(13361)
त्रातारं मनसा जग्मुर्देवं नारायमं प्रभुम्।
एतस्मिन्नन्तरे तत्र जगाम हरिरीश्वरः॥ 2-51-16(13362)
दीपयञ्ज्योतिषा भूमिं शङ्खचक्रगदाधरः।
तमागतं सुपर्णस्थं विष्णुं लोकनमस्कृतम्॥ 2-51-17(13363)
दृष्ट्वा मुदा युताः सर्वे भयं त्यक्त्वा रमे सुराः।
चक्रुर्युद्धं पुनः सर्वे देवा दैतेयदानवैः॥ 2-51-18(13364)
तद्युद्धमभवद्घोरमचिन्त्यं रोमहर्षणम्।
जघ्रुर्दैत्यान्त्रणे घोराः सर्वे शक्रपुरोगमाः॥ 2-51-19(13365)
ते बाध्यमाना बिबुधैर्दुद्रुवुदैत्यदानवाः॥ 2-51-20(13366)
विद्रुतान्दानवान्दृष्ट्वा तदा भारत संयुगे।
कालनेमिरिति ख्यातो दानवः प्रत्यदृश्यता॥ 2-51-21(13367)
शत्रुप्रहरणे घोरः शतबाहुः शताननः।
शतशीर्षः स्थितः श्रीमाञ्छतशृङ्गं इवाचलः॥ 2-51-22(13368)
भास्कराकारमुकुटः शिञ्जिताभरणाङ्गदः।
धूम्रकेतुर्हरिश्मश्रुर्निर्दष्टोष्ठपुटाननः॥ 2-51-23(13369)
त्रैलोक्यान्तरविस्तारं धारयन्विपुलं वपुः।
तर्जयन्वै रणे देवाञ्छादयन्वै दिशो दश॥ 2-51-24(13370)
अभ्यधावत्सुसङ्क्रुद्धो व्यादितास्य इवान्तकः।
तत्र शस्त्रप्रतानैश्च देवान्धर्षितवान्त्रणे॥ 2-51-25(13371)
अभ्याययुः सुरान्सर्वान्पुनस्ते दैत्यदानवाः।
आपीडयन्त्रणे क्रुद्धास्ततो देवान्युधिष्ठिर॥ 2-51-26(13372)
ते वध्यमाना विबुधाः समरे कालनेमिना।
दैत्यैश्चैव महाराज दुद्रुवुस्ते दिशो दश॥ 2-51-27(13373)
विबुधान्विद्रुतान्दृष्ट्वा कालनेमिर्महा।ञसुरः।
इन्द्रं यमं च वरुणं वायुं च धनदं रविम्॥ 2-51-28(13374)
एतांश्चान्यान्बलाञ्जित्वा तेषां कार्याण्यवाप सः।
तान्सर्वान्सहसा जित्वा कालनेमिर्महासुरः॥ 2-51-29(13375)
ददर्श गगने विष्णुं सुपर्णस्थं महाद्युतिम्।
तं दृष्ट्वा क्रोधताम्राक्षस्तर्जयन्नभ्ययात्तदा॥ 2-51-30(13376)
स बाहुशतमुद्यम्य सर्वास्त्रग्रहणं रणे।
रोषाद्भारत दैत्येन्द्रो विष्णोरुरसि पातयत्॥ 2-51-31(13377)
दैत्याश्च दानवाश्चैव सर्वे मयपुरोगमाः।
स्वान्यायुधानि सङ्गृह्य सर्वे विष्णुमुपाद्रवन्॥ 2-51-32(13378)
स ताड्यमानो।ञतिबलैर्दैत्यैः सर्वायुघोद्यतैः।
न चचाल हरिर्युद्धेऽकम्पमान इवाचलः॥ 2-51-33(13379)
पुनरुद्यम्य सङ्क्रुद्धः कालनेमिर्दृढां गदाम्।
जघान गदया राजंस्तं विष्णुं गरुडं च वै॥ 2-51-34(13380)
तं दृष्ट्वा गुरडं श्रान्तं चक्रमुद्यस्य वै हरिः।
शतं शिरांसि बाहूंश्च सोच्छिनत्कालनेमिनः॥ 2-51-35(13381)
जघानान्यांस्च तान्सर्वान्समरे दैत्यदानवान्।
विबुधानामृषीणां च स्वानि स्थानानि वै ददौ॥ 2-51-36(13382)
दत्त्वा सुराणां सुग्रीतो योग्यकर्माणि भारत।
जगाम ब्रह्मणा सार्धं ब्रह्मलोकं तदा हरिः॥ 2-51-37(13383)
ब्रह्मलोकं प्रविश्याश्च प्राप्य नारायणः प्रभुः।
पौराणं ब्रह्मसदनं दिव्यं नारायणाश्रयम्॥ 2-51-38(13384)
स प्रविश्य तदा देवः स्तूयमानो महर्षिभिः।
सहस्रशीर्षा भूत्वा च शयनायोपचक्रमे॥ 2-51-39(13385)
आदिदेवः पुराणात्मा निद्रावशमुपागतः।
शेते सुखं सदा विष्णुर्मोहयञ्जगदव्ययः॥ 2-51-40(13386)
जग्मुस्तस्याथ वर्षाणि शयानस्य महात्मनः।
षट्त्रिंशच्छतसाहस्रं मानुषेणेह सङ्ख्यया॥ 2-51-41(13387)
जग्मुः कृतयुगत्रेताद्वापरान्ते बुबोध ह।
ब्रह्मादिभिः स्तूयमानः सुरैश्चापि सहर्षिभिः॥ 2-51-42(13388)
उत्पत्य शयनाद्विष्णुर्ब्रह्मणा विबुधैः सह।
देवानां च हितार्थाय ययौ देवसभां प्रति॥ 2-51-43(13389)
मेरोः शिरसि विन्यस्तां ज्वलन्तीं तां शुभां सभाम्।
विविशुस्ते सुराः सर्वे ब्रह्मणा सह भारत॥ 2-51-44(13390)
जग्मुस्तत्र निषेदुस्ते सा निःशब्दा ह्यभूत्तदा।
तत्र भूमिरुवाचाथ खेदात्करुणभाषिणी॥ 2-51-45(13391)
राज्ञां बलैर्बलवतां खिन्नास्मि भृशपीडिता।
नित्यं भारपरिश्रान्ता दुःखं जीवाम्यहं सुराः॥ 2-51-46(13392)
पुरे पुरे च नृपतिः कोटिसङ्ख्यैर्बलैर्वृतः।
राष्ट्रे राष्ट्रे च शतशो ग्रामाः कुलसहस्रिणः॥ 2-51-47(13393)
भूमिपानां सहस्रैश्च तेषां च बिलनां बलैः।
ग्रामायुतैः पुरै राष्ट्रैरहं निर्विवरीकृता॥ 2-51-48(13394)
तस्माद्धारयितुं शक्त्या न क्षमासि जनानहम्।
दैत्यैश्च बाध्यमानास्ताः प्राज नित्यं दुरात्मभिः॥ 2-51-49(13395)
भीष्ण उवाच। 2-51-50x(1478)
भूमेस्तु वचनं श्रुत्वा देवो नारायणस्तदा।
व्यादिश्य तान्सुरान्सर्वान्क्षितौ वस्तुं मनो दधे॥ ॥ 2-51-50(13396)
इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि एकपञ्चाशोऽध्यायः॥ 51॥
Mahabharata - Sabha Parva - Chapter Footnotes
2-51-42 कृतयुगत्रेताद्वापराः अन्त इति छेदः॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|